वेदामृतम्
(1)
ऊॅं भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि।
धियो यो नः प्रचोदयात्।। (यजुर्वेद 36/3)
(2)
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः स्वस्ति नो वृहस्पतिर्दधातु।।
(सामवेद 21/3/9)
(3)
पश्येम शरदः शतं जीवेम शरदः शतं श्रृणुयाम शरदः शतं प्र ब्रवाम शरदः शतमदीनाः स्यामशरदः शतं भूयश्च शरदः शतात्।।
(यजुर्वेद 36/24)
(4)
पश्येम शरदः शतम् जीवेम शरदः शतम्।
बुध्येम शरदः शतम् रोहेम शरदः शतम्।।
पूषेम शरदः शतम् भवेम शरदः शतम्।
भूयेम शरदः शतम् भूयसीः शरदः शतात्।।(अथर्ववेद 19/67/1-8)
(5)
जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम्।
ममेदह क्रतावसो मम चित्तमुपायसि।। (अथर्ववेद 1/34/2)
(6)
सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै। तेजस्वि नावधीतमस्तु। मा विद्विषावहै।
ऊॅं शान्तिः शान्तिः शान्तिः। (कृष्णयजुर्वेदीय शान्ति पाठ )
(7)
द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः शान्तिब्र्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि।। (यजुर्वेद 36/17)
।। इति शुभम्।।
Comments
Post a Comment