हरिश्चन्द्रोपाख्यानम् शुनःशेपोपाख्यानं वा


                                                                      20190413_124949.jpg



प्रथमः खण्डः

हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजाऽपुत्र आस। तस्य ह शतं जाया बभूवुस्तासु पुत्रं न लेभे। तस्य ह पर्वतनारदौ गृह ऊषतुः। स ह नारदं पप्रच्छ।
यं न्विमं पुत्रमिच्छन्ति ये विजानन्ति ये च न।
किंस्वित् पुत्रेण विन्दते तन्म आचक्ष्व नारद।।  इति।
 स एकया पृष्टो दशभिः प्रत्युवाच।
ऋणमस्मिन्संनयत्यमृतत्वं        च गच्छति।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम्।।
यावन्तः पृथिव्यां भोगा यावन्तो जातवेदसि।
यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः।।
शश्वत्पुत्रेण पितरोऽत्यायन्बहुलं तमः।
आत्मा हि जज्ञ आत्मनः स इरावत्यतितारिणी।।
किं नु मलं किमजिनं किमु श्मश्रूणि किं तपः।
पुत्रं ब्रह्माण इच्छध्वं स वै लोकोऽवदावदः।।
अन्नं ह प्राणाः शरणं ह वासो रुपं हिरण्यं पशवो विवाहाः।
सखा ह जाया कृपणं ह दुहिता ज्योतिर्ह पुत्रः परमे व्योमन्।।
पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम्।
तस्यां पुनर्नवो भूत्वा दशमे मासि जायते।।
तज्जाया जाया भवति यदस्यां जायते पुनः।
आभूतिरेषा    भूतिर्बीजमेतन्निधीयते।।
देवाश्चैतामृषयश्च तेजः समभरन्महत्।
देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः।।
नापुत्रस्य लोकोऽस्तीति यत्सर्वे पशवो विदुः।
तस्मात् पुत्रो मातरं स्वसारं चाधिरोहति।।
एष पन्था उरुगायः सुशेवो यं पुत्रिण आक्रमन्ते विशोकाः।
तं पश्यन्ति पशवो वयांसि च तस्माŸो मात्राऽपिमिथुनीभवन्ति।।
इति हास्मा आख्याय।।13।।

                              द्वितीयः खण्डः
 अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन त्वा यजा इति। तथेति स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा इति, तथेति तस्य पुत्रो जज्ञे रोहितो नाम। तं होवाचाजनि वै ते पुत्रो यजस्व माऽनेनेति, स होवाच यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति निर्दशो न्वस्त्वथ त्वा यजा इति, तथेति। स ह निर्दश आस तं होवाच निर्दशो न्वभूद्यजस्व माऽनेनेति, स होवाच यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति, दन्ता न्वस्य जायन्तामथ त्वा यजा इति, तथेति। तस्य ह दन्ता जज्ञिरे तं होवाचाज्ञत वा अस्य दन्ता यजस्व माऽनेनेति, स होवाच यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति, तथेति। तस्य ह दन्ता पेदिरे तं होवाचापत्सत वा अस्य दन्ता यजस्व माऽनेनेति, स होवाच यदा वै पशोर्दन्ताः पुनर्जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति, तथेति।तस्य ह दन्ताः पुनर्जज्ञिरे तं होवाचाज्ञत वा अस्य पुनर्दन्ता यजस्व माऽनेनेति, स होवाच यदा वै क्षत्रियः सांनाहुको भवत्यथ स मेध्यो भवति संनाहं नु प्राप्नोत्वथ त्वा यजा इति, तथेति। स ह संनाहं प्रापŸां होवाच संनाहं तु प्राप्नोद्यजस्व माऽनेनेति, स तथेत्युक्त्वा पुत्रमामन्त्रयामास ततायं वै मह्यं त्वामददाद्धन्त त्वयाऽहमिमं यता इति। स ह नेत्युक्त्वा धनुरादायारण्यमुपातस्थै स संवत्सरमरण्ये चचार।। 14।।

                             तृतीयः खण्डः
अथ हैक्ष्वाकं वरुणो जग्राह तस्य होदरं जज्ञे तदु ह रोहितः शुश्राव सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्यावाच -
नानाश्रान्ताय श्रीरस्तीति रोहित शुभम।
पापो नृषद्वरो जन इन्द्र इच्चरतः सखा, चरैवेति।।
चरैवेति वै मा ब्राह्मणोऽवोचदिति ह द्वितीयं संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच-
पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलग्रहिः।
शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हतश्चरैवेति।।
चरैवेति वै मा ब्राह्मणोऽवोचदिति ह संवत्सरमरण्ये चचार सोऽरण्याद्ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच-
आस्ते भग आसीनस्योध्र्वस्तिष्ठति तिष्ठतः।
शेते निषद्यमानस्य चराति चरतो भगश्चरैवेति।।
चरैवेति वै मा ब्राह्मणोऽवोचदिति ह चतुर्थं संवत्सरमरण्ये चचार सोऽरण्याद् ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच-
कलिः शयानो भवति संजिहानस्तु द्वापरः।
उŸिाष्ठंस्त्रेता भवति कृत ंसंपद्यते चरंश्चरैवेति।।
चरैवेति वै मा ब्राह्मणोऽवोचदिति ह पञ्चमं संवत्सरमरण्ये चचार सोऽरण्याद् ग्राममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच-
चरन्वै मधु विन्दति चरन्स्वादुमुदुम्बरम्।
सूर्यस्य पश्य श्रेमाणं यो न तन्द्रयते चरंश्चरैवेति।।

चरैवेति वै मा ब्राह्मणोऽवोचदिति ह षष्ठं संवत्सरमरण्ये चचार सोऽजीगर्तं सौयवसिमृषिमशनया परीतमरण्य उपेयाय।
                             तस्य ह त्रयः पुत्रा आसुः शुनःपुच्छः शुनःशेपः शुनोलाङ्गूल इति तं होवाच ऋषेऽहं ते शतं ददाम्यहमेषामेकेनाऽऽत्मानं निष्कृणा इति स ज्येष्ठं पुत्रं निगृह्णान उवाच नन्विममिति नो एवमेवमिति कनिष्ठं माता तौ ह मध्यमे संपादयाञ्चक्रतुः शुनःशेपे तस्य ह शतं दत्वा स तमादाय सोऽरण्याद् ग्राममेयाय इति।   स पितरमेत्योवाच तत हन्ताहमनेनाऽऽत्मानं निष्कृणा इति स  वरुणं राजानमुपससारानेन त्वा यजा इति तथेति भूयान्वै ब्राह्मणः क्षत्रियादिति वरूण उवाच तस्मा एतं राजसूयं यज्ञक्रतुं प्रोवाच तमेतमभिषेचनीये पुरुषं परूाुमालेभे।।15।।
                              चतुर्थः खण्डः
             तस्य ह विश्वामित्रो होताऽऽसीज्जमदग्निरध्वर्युर्वसिष्ठो ब्रह्माऽयास्य उद्गाता तस्मा उपाकृताय निषेक्तारं न विविदुः स होवाचाजीगर्त सौयवसिर्मह्यमपरं शतं दŸााहमेनं नियोक्ष्यातीति तस्मा अपरं शतं ददुस्तं स निनियोज।
    तस्मा उपाकृताय नियुक्तायाऽऽप्रीताय पर्यग्निकृताय विशसितारं न विविदुः स होवाचाजीगर्तः सौयवसिर्मह्यमपरं शतं दŸााहमेन विशसिष्यामीति तस्ता अपरं शतं ददुः सोऽसिं निःशान एपाय।
                   अथ ह शुनःशेप ईक्षाञ्चक्रेऽमानुषमिव वै मा विशसिष्यन्ति हन्ताहं देवता उपधावामीति स प्रजापतिमेव प्रथमं  देवतानामुपससार कस्य नुनं कतमस्यामृतानामित्येतयर्चा।
          तम् प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा।
         तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन।
          तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेदोपधाव स वरुणं राजानमुपससारात उŸाराभिरेकत्रिंशता।
           तं वरुण उवाचाग्निर्वै देवानां मुखं सुहृदयतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽग्ंिन तुष्टावात उŸाराभिद्र्वाविंशत्या।
   तमग्निरुवाच विश्वान्नु देवान्स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नम अर्भकेभ्य इत्येतया।
तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सŸामः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इन्द्रं तुष्ठाव यच्चिद्धि सत्य सोमपा इति चैतेन सूक्तेनोŸारस्य च पञ्चदशभिः।
          तस्मा इन्द्र स्तूयमानः प्रीतो मनसा हिरण्यरथं ददौ तमेतया प्रतीताय शश्वदिन्द्र इति।
         तमिन्द्र उवाचाश्विनै नु स्तुह्यथ त्वोत्स्रक्ष्याम इति सोऽश्विनौ तुष्टावात उŸारेण तृचेन।
       तमश्विना ऊचतुरुषसं नु स्तुह्यथ  त्वोत्स्रक्ष्याम इति स उषसं तुष्टावात उŸारेण तृचेन।
तस्य ह स्मच्र्यृच्युक्तायां वि पाशो मुमुचे कनीय ऐक्ष्वाकस्योदरं भवत्युŸामस्यामेवच्र्युक्तायां वि पाशो मुमुचेऽगद ऐक्ष्वाक आस।।16।।


पंचमः खण्डः
            तमृत्विज ऊचुस्त्वमेव नोऽस्याह्नः संस्थामधिगच्छेत्यथ शुनःशेपोऽञ्जःसवं ददर्श तमेताभिश्चतसृभिरभिसुषाव यच्चिद्धि त्वं गृहे गृह इत्यथैनं द्रोणकलशमभ्यवनिनायोच्छिष्टं चम्वोर्भरेत्येतयर्चाऽथ हास्मिन्नन्वारब्धे पुर्वाभिश्चतसृभिः स स्वाहाकाराभिर्जुहवाञ्चकाराथैनमवभृथमभ्यवनिनाय त्वं ंनो अग्ने वरुणस्य विद्वानित्येताभ्यामथैनमत ऊध्मर्वग्निमाहवनीयमुपस्थापयाञ्चकार शुनश्चिच्छेपं निदितं सहस्रादिति।
            अथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद स होवाचाजीगर्तः सौपवसिर्ऋषे पुनर्मे पुत्रं देहीति नेति होवाच विश्वामित्रो देवा वा इमं मह्यमरासतेति स ह देवरातो वैश्वामित्र आस तस्यैते कापिलेयबाभ्रवाः।
स होवाचाजीगर्तः सौयवसिस्त्वं वेहि विह्वयावहा इति स होवाचाजीगर्तः सौयवसिः
आङ्गिरसो जन्मनाऽस्याजीगर्तिः श्रुतः कविः।
ऋषेः पैतामहाŸान्तोर्माऽपगाः पुनरेहि माम्। इति।
स होवाच शुनःशेपो
 अदर्शुस्त्वा शासहस्तं न यच्छूद्रेष्वलप्सत।
गवां त्रीणि शतानि त्वमवृणीथा मदङ्गिरः।। इति।।
स होवाचाजीगर्तः सौयवसिः
तद्वै मा तात तपति पापं कर्म मया कृतम्।
तदहं निह्नुवे तुभ्यं प्रतियन्तु शता गवामिति।।
स होवाच शुनःशेपो
यः सकृत्पापकं कुर्यात्कुर्यादनेनŸातोऽपरम्।
नपागाः शौद्रान्न्यायादसन्धेयं त्वयाकृतम्। इति।।
असंधेयमिति ह विश्वामित्र उपपपाद स होवाच विश्वामित्रो भीम एव सौयवसिः शासेन विशिशासिषुः। अस्थान्मैतस्य पुत्रो भूर्ममैवोपेहि पुत्रताम्।। इति।।
स होवाच शुनःशेपः -
स वै यथा नो ज्ञपयाऽऽराजपुत्र तथा वद।
यथैवाऽऽङ्गिरसः सन्नुपेयां तव पुत्रताम्।। इति।।
स होवाच विश्वामित्रो
ज्येष्ठो मे त्वं पुत्राणां स्यास्तव श्रेष्ठा प्रजा स्यात्।
उपेया दैवं मे दायं तेन वै त्वोपमन्त्रये।। इति।।
स होवाच शुनःशेपः
संज्ञानानेषु वै ब्रूयात्सौहाद्र्याय मे श्रियै।
यथाऽहं भरत ऋषभोपेयां तव पुत्रताम्।। इति।।
अथ ह विश्वामित्रः पुत्रानामन्त्रयामास
मधुच्छंदा श्रृणोतन ऋषभो रेणुरष्टकः।
ये के च भ्रातरः स्थ नास्मै ज्येष्ठ्याय कल्पध्वमिति।। 17।।
                        षष्ठः खण्डः
तस्य ह विश्वामित्रस्यैकशतं पुत्रा आसुः पञ्चाशदेव ज्यायांसो मधुच्छन्दसः पञ्चाशत् कनीयांसः।
तद्ये ज्यायांसो न ते कुशलं मेनिरे ताननु व्याजहारान्तान्वः प्रजा भक्षीष्टेति त एतेऽन्ध्राः पुण्ड्राः शबराः पुलिन्दा मूतिबा इत्युदन्त्या बहवो वैश्वामित्रा दस्यूनां भूयिष्ठाः।
स होवाच मधुच्छन्दाः पञ्चाशता सार्धं यन्नः पिता संजानीते तस्ंिमस्तिष्ठामहे वयम्। पुरस्त्वा सर्वे कुर्महे त्वामन्चञ्चो वयं स्मसीति।
ते वै पुत्राः पशुमन्तो धीरवन्तो भविष्यथ।
ये मानं मेऽनुगृह्णन्तो वीरवन्तमकर्त मा।।
पुर एत्रा वीरवन्तो देवरातेन गाथिनाः।
सर्वे राध्याःस्थ पुत्रा एष वः सद्विवाचनम्।।
एष  वः  कुशिका   वीरो     देवरातस्तमन्वित।
युष्मांश्च दायं म उपेता विद्यां यामु च विद्मसि।।
ते सम्यञ्चो वैश्वामित्राः सर्वे साकं सरातयः।
छेवराताय तथिरे धृत्यै श्रेष्ठ्याय गाथिनाः।।
अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः।
जह्नूनां चाऽऽधिपत्ये दैवे वेदे च गाथिनाम्।।
तदेतत्परऋक्शतं शौनःशेपमाख्यानम्।
तद्धोता राज्ञेऽभिषिक्तायाऽचष्टे।
हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति यशो वै हिरण्यं यशसैवैनं तत्समर्थयति।
ओमित्यृचः प्रतिगर एवं तथेति गाथाया ओमिति वै दैवं तथेति मानुषं दैवेन चैवैनं तन्मानुषेण च पापादेनसः प्रमुञ्चति।
तस्माद्यो राजा विजिती स्यादप्ययजमान आख्यापयेतैवैतच्छौनः शेपमाख्यानं न हास्मिन्नल्पं चनैनः परिशिष्यते।
सहस्रमाख्यात्रे दद्याच्छतं प्रतिगरित्र एते चैवाऽऽसने श्वेतश्चाश्वतरीरथो होतुः।
पुत्रकामा हाप्याख्यापयेरॅंल्लभन्ते ह पुत्राॅंल्लभन्ते ह पुत्रान्।। 18।।
               

________ऐतरेयब्राह्मणे त्रयस्ंित्रशोऽध्यायःहरिश्चन्द्रोपाख्यानम्(शुनःशेपोपाख्यानं वा)_____________

Comments

Popular posts from this blog

संस्कृत साहित्य में गद्य विकास की रूप रेखा

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी

गीतिकाव्य मेघदूतम्